वांछित मन्त्र चुनें

त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ । त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥

अंग्रेज़ी लिप्यंतरण

tvam pura indra cikid enā vy ojasā śaviṣṭha śakra nāśayadhyai | tvad viśvāni bhuvanāni vajrin dyāvā rejete pṛthivī ca bhīṣā ||

पद पाठ

त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । स॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ । त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥ ८.९७.१४

ऋग्वेद » मण्डल:8» सूक्त:97» मन्त्र:14 | अष्टक:6» अध्याय:6» वर्ग:38» मन्त्र:4 | मण्डल:8» अनुवाक:10» मन्त्र:14